|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.16. अध्यायः 016
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति भगवन्महिमप्रतिपादकव्यासवचनानुवादः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`भीष्म उवाच।
द्वारकायां यथा प्राह पुराऽयं मुनिसत्तमः।
वेदविप्रमयत्वं तु वासुदेवस्य तच्छृणु॥ 13-16-1(81757)
यूपं विष्णुं वासुदेवं विजान-
न्सर्वान्विप्रान्बोधते तत्वदर्शि।
विष्णुं क्रान्तं वासुदेवं विजान-
न्विप्रो विप्रत्वं गच्छते तत्वदर्शी॥ 13-16-2(81758)
विष्णुर्यज्ञस्त्विज्यते चापि विष्णुः
कृष्णो विष्णुर्यश्च कृत्स्नः प्रभुश्च।
कृष्णो वेदाङ्गं वेदवादाश्च कृष्ण
एवं जानन्ब्राह्मणो ब्रह्म एति॥ 13-16-3(81759)
स्थानं सर्वं वैष्णवं यज्ञमार्गे
चातुर्होत्रं वैष्णवं तत्र कृष्णः।
सर्वैर्भावैरिज्यते सर्वकामैः
पुण्याँल्लोकान्ब्राह्मणाः प्राप्नुवन्ति॥ 13-16-4(81760)
सोमं सद्भावाद्ये च जातं पिबन्ति
दीप्तिं कर्म ये विदानाश्चरन्ति।
एकान्तमिष्टं चिन्तयन्तो दिविस्था-
स्ते वै स्थानं प्राप्नुवन्ति व्रतज्ञाः॥ 13-16-5(81761)
ओमित्येतद्ध्यायमानो न गच्छे-
द्दुर्गं पन्थानं पापकर्मापि विप्रः।
सर्वं कृष्णं वासुदेवं हि विग्राः
कृत्वा ध्यानं दुर्गतिं न प्रयान्ति॥ 13-16-6(81762)
आज्यं यज्ञः स्रुक्स्रुवौ यज्ञदाता
इच्छा पत्नी पत्निशाला हवींषि।
इध्याः पुरोडाशं सर्वदा होतृकर्ता
कृत्स्नं विष्णुं संविजानंस्तमेति॥ 13-16-7(81763)
योगेयोगे कर्मणां चाभिहारे
युक्ते वैताने कर्मणि ब्राह्मणस्य।
पुष्ट्यर्थेषु प्राप्नुयात्कर्मसिद्धिं
शान्त्यर्थेषु प्राप्नुयात्सर्वशान्तिम्ट'॥ ॥ 13-16-8(81764)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षोडशोऽध्यायः॥ 16 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|